मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
Om symbol.png

कठोपनिषदः काठकोपनिषदित्यपि नाम वर्तते। कृष्णयजुर्वेदीया इयम् उपनिषत्। अस्याम् उपनिषदि अध्यायद्वयं वर्तते। प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते। यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते। इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते। प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति। प्रत्येकस्मिन् उपनिषदि अपि ब्रह्मज्ञानविषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते। कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

घटी

Pendulum clock by Jacob Kock, antique furniture photography, IMG 0931 edit.jpg



आधुनिकलेखः
आधुनिकाः लेखाः
जैनमतम्

जैनदर्शनं (Jainism) भारतीयदर्शनेषु अन्यतमं वर्तते। चार्वाकविचारधारायाः अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति। चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति चिन्तनस्य प्रावाहिकता जैनदर्शने दृश्यते। यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम्। तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम्। वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति'। अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्यते। तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति। जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति। स भौतिकपदार्थवत् अनित्योऽस्ति। (अधिकवाचनाय »)




प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
सप्तचिरञ्जीविनां नामानि -
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥



वर्तमानघटनाः
अद्यतनं सुभाषितम्
भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः सुजनतामुपयाति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

सु.भा. - दैवाख्यानम् (९६/७४)

यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति। नास्ति अत्र संशयः। तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति। अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति। किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति।


सहपरियोजनाः

"https://sa.bywiki.com/w/index.php?title=मुख्यपृष्ठम्&oldid=425470" इत्यस्माद् पुनः प्राप्तिः